बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ २९ ॥
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ २९ ॥
buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu .
procyamānamaśeṣeṇa pṛthaktvena dhanañjaya .. 29 ..
हे धनञ्जय! बुद्धिके और धृतिके भी सत्त्वादि गुणोंके अनुसार तीन-तीन प्रकारके भेद तू विभागपूर्वक सम्पूर्णतासे यथावत् कहे हुए सुन। यह सूत्ररूपसे कहना है।
तात्पर्य पढ़ें
बुद्धेः भेदं धृतेः च एव भेदं गुणतः सत्त्वादिगुणतः त्रिविधं शृणु इति सूत्रोपन्यासः, प्रोच्यमानं कथ्यमानम् अशेषेण निरवशेषतो यथावत् पृथक्त्वेन विवेकतो धनञ्जय। दिग्विजये मानुषं दैवं च प्रभूतं धनम् अजयत् तेन असौ धनञ्जयः अर्जुनः ॥ २९ ॥