अध्याय 18 - श्लोक 31

यया धर्ममधर्मं च कार्यं चाकार्यमेव च।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ ३१ ॥

yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca.
ayathāvatprajānāti buddhiḥ sā pārtha rājasī .. 31 ..


हे पार्थ ! जिस बुद्धिके द्वारा मनुष्य शास्त्रविहित धर्म को और शास्त्रप्रतिषिद्ध अधर्म को, एवं पूर्वोक्त कर्तव्य और अकर्तव्य को, यथार्थरूपसे—सर्वतोभावसे निर्णयपूर्वक नहीं जानता, वह बुद्धि राजसी है ॥ ३१ ॥
तात्पर्य पढ़ें
यया धर्मं शास्त्रचोदितम् अधर्मं च तत्प्रतिषिद्धं कार्यं च अकार्यम् एव च पूर्वोक्ते एव कार्याकार्ये अयथावद् न यथावत् सर्वतो निर्णयेन न प्रजानाति बुद्धिः सा पार्थ राजसी ॥ ३१ ॥