यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ ३४ ॥
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ ३४ ॥
yayā tu dharmakāmārthāndhṛtyā dhārayate’rjuna .
prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī .. 34 ..
हे अर्जुन! जिस धृतिके द्वारा मनुष्य धर्म, काम और अर्थों को धारण करता है, अर्थात् जिस धृति द्वारा मनुष्य इन सबको मनमें अवश्यकर्तव्यरूपसे निश्चय किया करता है।
तथा जिस-जिस धर्म, अर्थ आदिके धारण करनेका प्रसङ्ग आता है, उस-उस प्रसङ्गसे ही जो मनुष्य फल चाहने वाला है, हे पार्थ ! उसकी जो धृति है वह राजसी होती है ॥ ३४ ॥
तात्पर्य पढ़ें
यया तु धर्मकामार्थान् धर्मः च कामः च अर्थः च धर्मकामार्थाः तान् धर्मकामार्थान् धृत्या यया धारयते मनसि नित्यकर्तव्यरूपान् अवधारयते हे अर्जुन ।
प्रसङ्गेन यस्य यस्य धर्मादेः धारणप्रसङ्गः तेन तेन प्रसङ्गेन फलाकाङ्क्षी च भवति यः पुरुषः तस्य धृतिः या सा पार्थ राजसी ॥ ३४ ॥