यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ ३९ ॥
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ ३९ ॥
yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ .
nidrālasyapramādotthaṃ tattāmasamudāhṛtam .. 39 ..
जो सुख आरम्भ में और परिणाम में भी अर्थात् उपभोग के पीछे भी आत्मा को मोहित करनेवाला होता है तथा निद्रा, आलस्य और प्रमाद से उत्पन्न हुआ है, अर्थात् जो निद्रा, आलस्य और प्रमाद—इन तीनों से उत्पन्न होता है, वह सुख तामस कहा गया है ॥ ३९ ॥
इसके उपरान्त अब प्रकरण का उपसंहार करनेवाला श्लोक कहा जाता है—
तात्पर्य पढ़ें
यद् अग्रे चानुबन्धे च अवसानोत्तरकाले सुखं मोहनं मोहकरम् आत्मनो निद्रालस्यप्रमादोत्थं निद्रा च आलस्यं च प्रमादः च इति एतेभ्यः समुत्तिष्ठति इति निद्रालस्यप्रमादोत्थं तत् तामसम् उदाहृतम् ॥ ३९ ॥
अथ इदानीं प्रकरणोपसंहारार्थः श्लोक आरभ्यते—