दानमीश्वरभावश्च क्षत्रकर्म स्वभावजम् ॥ ४३ ॥
śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam .
dānamīśvarabhāvaśca kṣatrakarma svabhāvajam .. 43 ..
शौर्य—शूरवीरता, तेज—दूसरों से न दबनेका स्वभाव, धृति—धारणाशक्ति, जिस शक्तिसे उत्साहित हुए मनुष्य का सभी अवस्थाओं में अनवसाद (नाश या शोक का अभाव) होता है, दक्षता—सहसा प्राप्त हुए बहुत-से कार्योंमें बिना घबड़ाहटके प्रवृत्त होनेका स्वभाव तथा युद्धमें न भागना—शत्रुको पीठ न दिखानेका भाव।
दान—देनेयोग्य पदार्थोंको खुले हाथ देनेका स्वभाव और ईश्वरभाव यानी जिनका शासन करना है, उनके प्रति प्रभुत्व प्रकट करना।
ये सब क्षत्रियोंके कर्म अर्थात् क्षत्रियजाति के लिये विहित उनके स्वाभाविक कर्म हैं ॥ ४३ ॥
तात्पर्य पढ़ें
शौर्यं शूरस्य भावः। तेजः प्रागल्भ्यम्। धृतिः धारणं सर्वावस्थासु अनवसादो भवति यया धृत्या उत्तम्भितस्य। दाक्ष्यं दक्षस्य भावः सहसा प्रत्युत्पन्नेषु कार्येषु अव्यामोहेन प्रवृत्तिः। युद्धे च अपि अपलायनम् अपराङ्मुखीभावः शत्रुभ्यः।
दानं देयेषु मुक्तहस्तता। ईश्वरभावः च ईश्वरस्य भावः प्रभुशक्तिप्रकटीकरणम् ईशितव्यान् प्रति।
क्षत्रकर्म क्षत्रियजातेः विहितं कर्म क्षत्रकर्म स्वभावजम् ॥ ४३ ॥