यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ ४६ ॥
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ ४६ ॥
yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam.
svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ .. 46 ..
जिस अन्तर्यामी ईश्वरसे समस्त प्राणियोंकी प्रवृत्ति यानी उत्पत्ति या चेष्टा होती है और जिस ईश्वरसे यह सारा जगत् व्याप्त है, उस ईश्वरका प्रत्येक वर्णके लिये पहले बतलाये हुए अपने कर्मों द्वारा पूजकर—उसकी आराधना करके मनुष्य केवल ज्ञाननिष्ठाकी योग्यतारूप सिद्धि प्राप्त कर लेता है ॥ ४६ ॥
ऐसा होने के कारण—
तात्पर्य पढ़ें
यतो यस्मात् प्रवृत्तिः उत्पत्तिः चेष्टा वा यस्माद् अन्तर्यामिण ईश्वरात् भूतानां प्राणिनां स्याद् येन ईश्वरेण सर्वम् इदं जगत् ततं व्याप्तम्, स्वकर्मणा पूर्वोक्तेन प्रतिवर्णं तम् ईश्वरम् अभ्यर्च्य पूजयित्वा आराध्य केवलं ज्ञाननिष्ठायोग्यतालक्षणां सिद्धिं विन्दति मानवो मनुष्यः ॥ ४६ ॥
यत एवम् अतः—