यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५ ॥
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५ ॥
yajñadānatapaḥkarma na tyājyaṃ kāryameva tat.
yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām .. 5 ..
यज्ञ, दान और तप, ये तीन प्रकार के कर्म त्यागने योग्य नहीं हैं अर्थात् इन तीनों का त्याग करना उचित नहीं है, इन्हें तो करना ही चाहिये; क्योंकि यज्ञ, दान और तप ये तीनों बुद्धिमानों को अर्थात् फल-कामनारहित पुरुषों को, पवित्र करनेवाले हैं ॥ ५ ॥
तात्पर्य पढ़ें
यज्ञो दानं तप इति एतत् त्रिविधं कर्म न त्याज्यं न त्यक्तव्यं कार्यं करणीयम् एव तत्। कस्माद् यज्ञो दानं तपः च एव पावनानि विशुद्धिकारणानि मनीषिणां फलानभिसन्धीनाम् इति एतत् ॥ ५ ॥