अध्याय 18 - श्लोक 51

कीदृशी सा, यादृशम् आत्मज्ञानम् । कीदृक्
तत्, यादृश आत्मा । कीदृशः असौ, यादृशो
बुद्ध्या विशुद्ध्या युक्तो धृत्यात्मानं नियम्य च ।
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ ५१ ॥

kīdṛśī sā, yādṛśam ātmajñānam . kīdṛk
tat, yādṛśa ātmā . kīdṛśaḥ asau, yādṛśo
buddhyā viśuddhyā yukto dhṛtyātmānaṃ niyamya ca .
śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca .. 51 ..


विशुद्ध—कपटरहित निश्चयात्मिका बुद्धि से सम्पन्न पुरुष, धैर्य से कार्य–करणके संघातरूप आत्माको (शरीरको) संयम करके—वशमें करके शब्दादि विषयोंको, अर्थात् शब्द जिनका आदि है ऐसे सभी विषयोंको छोड़कर, प्रकरणके अनुसार यहाँ यह अभिप्राय है कि केवल शरीरस्थितिमात्रके लिये जिन

विषयों की आवश्यकता है, उनसे अतिरिक्त सुखभोगके लिये जो अधिक विषय हैं, उन सबको छोड़कर तथा शरीरस्थिति के निमित्त प्राप्त हुए विषयोंमें भी राग-द्वेषका अभाव करके—त्याग करके ॥ ५१ ॥

उसके बाद—

तात्पर्य पढ़ें

बुद्ध्या अध्यवसायात्मिकया विशुद्धया मायारहितया युक्तः सम्पन्नो धृत्या धैर्येण आत्मानं कार्यकरणसङ्घातं नियम्य च नियमनं कृत्वा वशीकृत्य शब्दादीन् शब्द आदिः येषां ते शब्दादयः तान् विषयान् त्यक्त्वा । सामर्थ्यात् शरीरस्थितिमात्रान् केवलान् मुक्त्वा ततः

अधिकान् सुखार्थान् त्यक्त्वा इत्यर्थः । शरीरस्थित्यर्थत्वेन प्राप्तेषु च रागद्वेषौ व्युदस्य च परित्यज्य ॥ ५१ ॥

ततः—