इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ।
विमूश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ ६३ ॥
विमूश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ ६३ ॥
iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā .
vimūśyaitadaśeṣeṇa yathecchasi tathā kuru .. 63 ..
मुझ सर्वज्ञ ईश्वर ने तुझ से यह गुह्य से भी गुह्य अत्यन्त गोपनीय रहस्ययुक्त ज्ञान कहा है। इस उपर्युक्त शास्त्र को, अर्थात् ऊपर कहे हुए समस्त अर्थ को पूर्ण रूप से विचारकर—इसके विषय में भली-प्रकार आलोचना करके, तेरी जैसी इच्छा हो वैसे ही कर ॥ ६३ ॥
फिर भी मैं जो कुछ कहता हूँ उसे सुन—
तात्पर्य पढ़ें
इति एतत् ते तुभ्यं ज्ञानम् आख्यातं कथितं गुह्याद् गोप्याद् गुह्यतरम् अतिशयेन गुह्यं रहस्यम् इत्यर्थो मया सर्वज्ञेन ईश्वरेण विमृश्य विमर्शनम् आलोचनं कृत्वा एतद् यथोक्तं शास्त्रम् अशेषेण समस्तं यथोक्तं च अर्थजातं यथा इच्छसि तथा कुरु ॥ ६३ ॥
भूयः अपि मया उच्यमानं शृणु—