अध्याय 18 - श्लोक 69

किं च—
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः।
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ ६९ ॥

kiṃ ca—
na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ.
bhavitā na ca me tasmādanyaḥ priyataro bhuvi .. 69 ..


उस गीताशास्त्रकी परम्परा चलानेवाले भक्तसे बढ़कर, मेरा अधिक प्रिय कार्य करनेवाला, मनुष्योंमें, कोई भी नहीं है। अर्थात् वह मेरा अतिशय प्रिय करनेवाला है, वर्तमान मनुष्योंमें उससे बढ़कर प्रियतम कार्य करनेवाला और कोई नहीं है, तथा भविष्यमें भी इस भूलोकमें उससे बढ़कर प्रियतर कोई दूसरा नहीं होगा ॥ ६९ ॥

जो भी कोई—

तात्पर्य पढ़ें

न च तस्मात् शास्त्रसम्प्रदायकृतो मनुष्येषु मनुष्याणां मध्ये कश्चिद् मे मम प्रियकृत्तमः अतिशयेन प्रियकृत् ततः अन्यः प्रियकृत्तमो न अस्ति एव इत्यर्थो वर्तमानेषु। न च भविता भविष्यति अपि काले तस्माद् द्वितीयः अन्यः प्रियतरो भुवि लोके अस्मिन् ॥ ६९ ॥

यः अपि—