व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् ।
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ ७५ ॥
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ ७५ ॥
vyāsaprasādācchrutavānetadguhyamahaṃ param .
yogaṃ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam .. 75 ..
मैंने (भगवान्) व्यासजी की कृपा से उनसे दिव्यचक्षु पाकर इस परम गुह्य संवाद को और परम योग को (सुना) अथवा (यों समझो कि) योगविषयक होने से यह संवाद ही योग है, अतः इस संवाद रूप योग को मैंने योगेश्वर भगवान् श्रीकृष्ण से, साक्षात् स्वयं कहते हुए सुना है, परम्परा से नहीं ॥ ७५ ॥
तात्पर्य पढ़ें
व्यासप्रसादात् ततो दिव्यचक्षुर्लाभात् श्रुतवान् एतं संवादं गुह्यम् अहं परं योगं योगार्थत्वात् संवादम् इमं योगम् एव वा योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयं न परम्परातः ॥ ७५ ॥