यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ७८ ॥
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ७८ ॥
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ.
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama .. 78 ..
समस्त योग और उनके बीज उन्हीं से उत्पन्न हुए हैं, अतः भगवान् योगेश्वर हैं। जिस पक्ष में (वे) सब योगों के ईश्वर श्रीकृष्ण हैं तथा जिस पक्ष में गाण्डीव धनुर्धारी पृथापुत्र अर्जुन है, उस पाण्डवों के पक्ष में ही श्री, उसी में विजय, उसी में विभूति अर्थात् लक्ष्मी का विशेष विस्तार और वहीं अचल नीति है—ऐसा मेरा मत है ॥ ७८ ॥
तात्पर्य पढ़ें
यत्र यस्मिन् पक्षे योगेश्वरः सर्वयोगानाम् ईश्वरः तत्प्रभवत्वात् सर्वयोगबीजस्य च कृष्णो यत्र पार्थो यस्मिन् पक्षे धनुर्धरो गाण्डीवधन्वा तत्र श्रीः तस्मिन् पाण्डवानां पक्षे विजयः तत्र एव भूतिः श्रियो विशेषो विस्तारो भूतिः ध्रुवा अव्यभिचारिणी नीतिः नय इति एवं मतिः मम इति ॥ ७८ ॥
इति श्रीमहाभारते शतसाहस्त्र्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूप-
निषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसन्न्यास-
योगो नामाष्टादशोऽध्यायः ॥ १८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमदाचार्य-
शंकरभगवतः कृतौ श्रीभगवद्गीताभाष्ये मोक्षसंन्यासयोगो
नामाष्टादशोऽध्यायः ॥ १८ ॥
समाप्तिमगमदिदं गीताशास्त्रम् ।