किं च—
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ ८ ॥
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ ८ ॥
kiṃ ca—
duḥkhamityeva yatkarma kāyakleśabhayāttyajet .
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet .. 8 ..
समस्त कर्म दुःखरूप हैं, ऐसा मानकर जो कोई शारीरिक क्लेश के भय से कर्मों को छोड़ बैठता है, वह (ऐसा) राजस त्याग करके, त्याग का फल अर्थात् ज्ञानपूर्वक किये हुए सर्वकर्मसंन्यास का मोक्षरूप फल नहीं पाता ॥ ८ ॥
तो फिर सात्त्विक त्याग कौन-सा है?
तात्पर्य पढ़ें
दुःखम् इति एव यत् कर्म कायक्लेशभयात् शरीरदुःखभयात् त्यजेत् परित्यजेत् स कृत्वा राजसं रजोनिर्वृत्तं त्यागं न एव त्यागफलं ज्ञानपूर्वकस्य सर्वकर्मत्यागस्य फलं मोक्षाख्यं न लभेद् न एव लभते ॥ ८ ॥
कः पुनः सात्त्विकः त्यागः—