धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ ३१ ॥
svadharmamapi cāvekṣya na vikampitumarhasi .
dharmyāddhi yuddhācchreyo’nyatkṣatriyasya na vidyate .. 31 ..
क्षत्रियके लिये जो युद्धरूप स्वधर्म है उसे देखकर भी तुझे कम्पित होना उचित नहीं है, अभिप्राय यह कि अपने स्वाभाविक धर्मसे विचलित होना (हटना) भी तुझे उचित नहीं है।
क्योंकि वह युद्ध पृथ्वी-विजय द्वारा धर्म-पालन और प्रजा-रक्षण के लिये किया जाता है, इसलिये धर्मसे ओतप्रोत परम धर्म्य है, अतः उस धर्ममय युद्धके सिवा दूसरा कुछ क्षत्रियके लिये कल्याणप्रद नहीं है ॥ ३१ ॥
और भी वह युद्ध किसलिये कर्तव्य है सो कहते हैं—
तात्पर्य पढ़ें
स्वधर्मम् अपि स्वो धर्मः क्षत्रियस्य युद्धं तम् अपि अवेक्ष्य त्वं न विकम्पितुं प्रचलितुं न अर्हसि; स्वाभाविकाद् धर्माद् आत्मस्वाभाव्याद् इति अभिप्रायः।
तत् च युद्धं पृथिवीजयद्वारेण धर्मार्थं प्रजारक्षणार्थं च इति धर्माद् अनपेतं परं धर्म्यं तस्माद् धर्म्याद् युद्धात् श्रेयः अन्यत् क्षत्रियस्य न विद्यते हि यस्मात् ॥ ३१ ॥
कुतः च तद् युद्धं कर्तव्यम् इति उच्यते—