यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ ३२ ॥
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ ३२ ॥
yadṛcchayā copapannaṃ svargadvāramapāvṛtam .
sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam .. 32 ..
हे पार्थ ! अनिच्छासे प्राप्त—बिना माँगे मिले हुए ऐसे खुले हुए स्वर्गद्वाररूप युद्धको जो क्षत्रिय पाते हैं, क्या वे सुखी नहीं हैं ? ॥ ३२ ॥
इस प्रकार कर्तव्यरूपसे प्राप्त होनेपर भी—
तात्पर्य पढ़ें
यदृच्छया च अप्रार्थितया उपपन्नम् आगतं स्वर्गद्वारम् अपावृतम् उद्घाटितं ये तद् ईदृशं युद्धं लभन्ते क्षत्रियाः हे पार्थ किं न सुखिनः ते ॥ ३२ ॥
एवं कर्तव्यताप्राप्तम् अपि—