अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ ३३ ॥
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ ३३ ॥
atha cettvamimaṃ dharmyaṃ saṅgrāmaṃ na kariṣyasi .
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi .. 33 ..
यदि तू यह धर्मयुक्त—धर्मसे ओतप्रोत युद्ध नहीं करेगा, तो उस युद्धके न करनेके कारण अपने धर्मको और महादेव आदिके साथ युद्ध करनेसे प्राप्त हुई कीर्ति—को नष्ट करके केवल पापको ही प्राप्त होगा ॥ ३३ ॥
केवल स्वधर्म और कीर्तिका त्याग होगा, इतना ही नहीं—
तात्पर्य पढ़ें
अथ चेत् त्वम् इमं धर्म्यं धर्माद् अनपेतं सङ्ग्रामं युद्धं न करिष्यसि चेत् ततः तदकरणात् स्वधर्मं कीर्तिं च महादेवादिसमागमनिमित्तां हित्वा केवलं पापम् अवाप्स्यसि ॥ ३३ ॥
न केवलं स्वधर्म कीर्तिपरित्यागः—