किं च—
भयाद्रणादुपरतं मंस्यन्ते
त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ ३५ ॥
भयाद्रणादुपरतं मंस्यन्ते
त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ ३५ ॥
kiṃ ca—
bhayādraṇāduparataṃ maṃsyante
tvāṃ mahārathāḥ .
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam .. 35 ..
जिन दुर्योधनादिके मतमें तू पहले बहुमत अर्थात् बहुत गुणोंसे युक्त माना जाकर अब लघुताको प्राप्त होगा, वे दुर्योधन आदि महारथीगण तुझे कर्णादिके भयसे ही युद्धसे निवृत्त हुआ मानेंगे, ‘दया करके हट गया है’ ऐसा नहीं ॥ ३५ ॥
तथा—
तात्पर्य पढ़ें
भयात् कर्णादिभ्यो रणाद् युद्धाद् उपरतं निवृत्तं मंस्यन्ते चिन्तयिष्यन्ति न कृपया इति त्वां महारथा दुर्योधनप्रभृतयः। येषां च त्वं दुर्योधनादीनां बहुमतो बहुभिः गुणैः युक्त इति एवं बहुमतो भूत्वा पुनः यास्यसि लाघवं लघुभावम् ॥ ३५ ॥