किं च—
अवाच्यवादांश्च बहुन्वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ ३६ ॥
अवाच्यवादांश्च बहुन्वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ ३६ ॥
kiṃ ca—
avācyavādāṃśca bahunvadiṣyanti tavāhitāḥ .
nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim .. 36 ..
वे तेरे शत्रुगण, निवातकवचादिके साथ युद्ध करने में दिखलाये हुए तेरे सामर्थ्यकी निन्दा करते हुए बहुत-से—अनेक प्रकारके न कहने योग्य वाक्य भी तुझे कहेंगे।
उस निन्दाजनित दुःखसे अधिक बड़ा दुःख क्या है? अर्थात् उससे अधिक कष्टकर कोई भी दुःख नहीं है ॥ ३६ ॥
पक्षान्तरमें कर्ण आदि शूरवीरोंके साथ युद्ध करनेपर—
तात्पर्य पढ़ें
अवाच्यवादान् अवक्तव्यवादान् च बहून् अनेकप्रकारान् वदिष्यन्ति तव अहिताः शत्रवो निन्दन्तः कुत्सयन्तः तव त्वदीयं सामर्थ्यं निवातकवचादियुद्धनिमित्तम् ।
तस्मात् ततो निन्दाप्राप्तेः दुःखाद् दुःखतरं नु किम्। ततः कष्टतरं दुःखं न अस्ति इत्यर्थः ॥ ३६ ॥
युद्धे पुनः क्रियमाणे कर्णादिभिः—