अध्याय 2 - श्लोक 40

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४० ॥

nehābhikramanāśo’sti pratyavāyo na vidyate.
svalpamapyasya dharmasya trāyate mahato bhayāt .. 40 ..


आरम्भका नाम अभिक्रम है, इस कर्मयोगरूप मोक्षमार्गमें अभिक्रमका यानी प्रारम्भका कृषि आदिके सदृश नाश नहीं होता। अभिप्राय यह कि योगविषयक प्रारम्भका फल अनैकान्तिक (संशययुक्त) नहीं है।

तथा चिकित्सादिकी तरह (इसमें) प्रत्यवाय (विपरीत फल) भी नहीं होता है।

तो क्या होता है ? इस कर्मयोगरूप धर्मका थोड़ा-सा भी अनुष्ठान (साधन) जन्म-मरणरूप महान् संसारभयसे रक्षा किया करता है ॥ ४० ॥

जो यह बुद्धि सांख्यके विषयमें कही गयी है और जो योगके विषयमें अब कही जानेवाली है वह—

तात्पर्य पढ़ें

न इह मोक्षमार्गे कर्मयोगे अभिक्रमनाशः अभिक्रमणम् अभिक्रमः प्रारम्भः तस्य नाशो न अस्ति यथा कृष्यादेः। योगविषये प्रारम्भस्य न अनैकान्तिकफलत्वम् इत्यर्थः।

किं च न अपि चिकित्सावत् प्रत्यवायो विद्यते।

किं तु भवति। स्वल्पम् अपि अस्य योगधर्मस्य अनुष्ठितं त्रायते रक्षति महतः संसारभयात् जन्ममरणादिलक्षणात् ॥ ४० ॥

या इयं साङ्ख्ये बुद्धिः उक्ता योगे च वक्ष्यमाणलक्षणा सा—