अध्याय 2 - श्लोक 52

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ ५२ ॥

yadā te mohakalilaṃ buddhirvyatitariṣyati .
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca .. 52 ..


जब तेरी बुद्धि मोहकलिल को अर्थात् जिसके द्वारा आत्मानात्मके विवेकविज्ञानको कलुषित करके अन्तःकरण विषयोंमें प्रवृत्त किया जाता है उस मोहात्मक अविवेककालिमाको उल्लङ्घन कर जायगी अर्थात् जब तेरी बुद्धि बिलकुल शुद्ध हो जायगी ।

तब उस समय तू सुननेयोग्यसे और सुने हुएसे वैराग्यको प्राप्त हो जायगा। अर्थात् तब तेरे लिये सुनने-योग्य और सुने हुए (सब विषय) निष्फल हो जायँगे, यह अभिप्राय है ॥ ५२ ॥

यदि तू पूछे कि मोहरूप मलिनतासे पार होकर आत्मविवेकजन्य बुद्धिको प्राप्त हुआ मैं, कर्मयोगके फलरूप परमार्थयोगको (ज्ञानको) कब पाऊँगा? तो सुन—

तात्पर्य पढ़ें

यदा यस्मिन्काले ते तव मोहकलिलं मोहात्मकम् अविवेकरूपं कालुष्यं येन आत्मानात्मविवेकबोधं कलुषीकृत्य विषयं प्रति अन्तःकरणं प्रवर्तते तत् तव बुद्धिः व्यतितरिष्यति व्यतिक्रमिष्यति शुद्धिभावं आपत्स्यते इत्यर्थः ।

तदा तस्मिन्काले गन्तासि प्राप्स्यसि निर्वेदं वैराग्यं श्रोतव्यस्य श्रुतस्य च तदा श्रोतव्यं श्रुतं च निष्फलं प्रतिपद्यते इति अभिप्रायः ॥ ५२ ॥

मोहकलिलात्ययद्वारेण लब्धात्मविवेकज-प्रज्ञः कदा कर्मयोगजं फलं परमार्थयोगम् अवाप्स्यामि इति चेत् तत् शृणु—