अध्याय 2 - श्लोक 60

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ ६० ॥

yatato hyapi kaunteya puruṣasya vipaścitaḥ .
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ .. 60 ..


हे कौन्तेय! जिससे कि प्रयत्न करनेवाले विचारशील— बुद्धिमान् पुरुष की भी प्रमथनशील इन्द्रियाँ, उस विषयाभिमुख हुए पुरुष को क्षुब्ध कर देती हैं— व्याकुल कर देती हैं और व्याकुल करके, (उस) केवल प्रकाश को ही देखनेवाले विद्वान् के विवेकविज्ञान-युक्त मन को (भी) बलात् विचलित कर देती हैं ॥ ६० ॥

जब कि यह बात है, इसलिये—

तात्पर्य पढ़ें

यततो प्रयत्नं कुर्वतः अपि हि यस्मात् कौन्तेय पुरुषस्य विपश्चितः मेधाविनः अपि इति व्यवहितेन सम्बन्धः। इन्द्रियाणि प्रमाथीनि प्रमथनशीलानि विषयाभिमुखं हि पुरुषं विक्षोभयन्ति आकुलीकुर्वन्ति। आकुलीकृत्य च हरन्ति प्रसभं प्रसह्य प्रकाशम् एव पश्यतो विवेकविज्ञानयुक्तं मनः ॥ ६० ॥

यतः तस्मात्—