ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते
सङ्गत्सञ्ज्ञायते कामः कामात्क्रोधोऽभिजायते ॥ ६२ ॥
सङ्गत्सञ्ज्ञायते कामः कामात्क्रोधोऽभिजायते ॥ ६२ ॥
dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate
saṅgatsañjñāyate kāmaḥ kāmātkrodho’bhijāyate .. 62 ..
विषयों का ध्यान—चिन्तन करनेवाले पुरुषकी अर्थात् शब्दादि विषयोंके भेदोंकी बारंबार आलोचना करनेवाले पुरुषकी उन विषयों में आसक्ति—प्रीति उत्पन्न हो जाती है। आसक्ति से कामना—तृष्णा उत्पन्न होती है। कामसे अर्थात् किसी भी कारणवश विच्छिन्न हुई इच्छासे क्रोध उत्पन्न होता है ॥ ६२ ॥
तात्पर्य पढ़ें
ध्यायतः चिन्तयतो विषयान् शब्दादिविषय-विशेषान् आलोचयतः पुंसः पुरुषस्य सङ्ग आसक्तिः प्रीतिः तेषु विषयेषु उपजायते । सङ्गात् प्रीतेः सञ्जायते समुत्पद्यते कामः तृष्णा । कामात् कुतश्चित् प्रतिहतात् क्रोधः अभिजायते ॥ ६२ ॥