अध्याय 2 - श्लोक 66

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ ६६ ॥

nāsti buddhirayuktasya na cāyuktasya bhāvanā .
na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham .. 66 ..


अयुक्त पुरुषमें अर्थात् जिसका अन्तःकरण समाहित नहीं है, ऐसे पुरुषमें आत्मस्वरूपविषयक बुद्धि नहीं होती अर्थात् नहीं रहती और उस अयुक्त पुरुषमें भावना अर्थात् आत्मज्ञानमें प्रगाढ प्रवेश—अतिशय प्रीति भी नहीं होती।

तथा भावना न करनेवालेको अर्थात् आत्मज्ञानके साधनमें प्रीतिपूर्वक संलग्न न होनेवालेको शान्ति अर्थात् उपशमता भी नहीं मिलती।

शान्तिरहित पुरुषको भला सुख कहाँ? क्योंकि विषय-सेवनसम्बन्धी तृष्णासे जो इन्द्रियोंका निवृत्त होना है, वही सुख है, विषय-सम्बन्धी तृष्णा कदापि सुख नहीं है, वह तो दुःख ही है।

अभिप्राय यह कि तृष्णाके रहते हुए तो सुखकी गन्धमात्र भी नहीं मिलती ॥ ६६ ॥

अयुक्त पुरुषमें बुद्धि क्यों नहीं होती? इसपर कहते हैं—

तात्पर्य पढ़ें

न अस्ति न विद्यते न भवति इत्यर्थः, बुद्धिः आत्मस्वरूपविषया अयुक्तस्य असमाहितान्तः-करणस्य। न च अस्ति अयुक्तस्य भावना आत्मज्ञानाभिनिवेशः।

तथा न च अस्ति अभावयतः आत्मज्ञानाभि- निवेशम् अकर्वतः शान्तिः उपशमः ।

अशान्तस्य कुतः सुखम्, इन्द्रियाणां हि विषयसेवातृष्णातो निवृत्तिः या तत् सुखम्, न विषयविषया तृष्णा, दुःखम् एव हि सा।

न तृष्णायां सत्यां सुखस्य गन्धमात्रम् अपि उपपद्यते इत्यर्थः ॥ ६६ ॥

अयुक्तस्य कस्माद् बुद्धिः न अस्ति इति उच्यते—