सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ १० ॥
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ १० ॥
sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ.
anena prasaviṣyadhvameṣa vo’stviṣṭakāmadhuk .. 10 ..
कैसे—
सृष्टि के आदिकाल में यज्ञसहित प्रजाको अर्थात् (ब्राह्मण, क्षत्रिय और वैश्य—इन) तीनों वर्णोंको रचकर जगत्के रचयिता प्रजापतिने कहा कि इस यज्ञ से तुमलोग प्रसव—उत्पत्ति, यानी वृद्धिलाभ करो। यह यज्ञ तुमलोगों को इष्ट कामनाओं का देनेवाला अर्थात् इच्छित फलरूप नाना भोगोंको देनेवाला हो ॥ १० ॥
तात्पर्य पढ़ें
सहयज्ञा यज्ञसहिताः प्रजा त्रयो वर्णाः ताः सृष्ट्वा उत्पाद्य, पुरा सर्गादौ उवाच उक्तवान् प्रजापतिः प्रजानां स्रष्टा, अनेन यज्ञेन प्रसविष्यध्वं प्रसवो वृद्धिः उत्पत्तिः तां कुरुध्वम्। एष यज्ञो वो युष्माकम् अस्तु भवतु इष्टकामधुक् इष्टान् अभिप्रेतान् कामान् फलविशेषान् दोग्धि इति इष्टकामधुक् ॥ १० ॥