किं च—
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ १२ ॥
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ १२ ॥
kiṃ ca—
iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ .
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ .. 12 ..
परंतु जो—
यज्ञद्वारा बढ़ाये हुए—संतुष्ट किये हुए देवता लोग तुमलोगों को स्त्री, पशु, पुत्र आदि इच्छित भोग देंगे।
उन देवों द्वारा दिये हुए भोगों को उन्हें न देकर अर्थात् उनका ऋण न चुकाकर, जो खाता है— केवल अपने शरीर और इन्द्रियों को ही तृप्त करता है, वह देवताओं के स्वत्व को हरण करनेवाला चोर ही है ॥ १२ ॥
तात्पर्य पढ़ें
ये पुनः—
इष्टान् अभिप्रेतान् भोगान् हि वो युष्मभ्यं देवा दास्यन्ते वितरिष्यन्ति स्त्रीपशुपुत्रादीन् यज्ञभाविता यज्ञैः वर्धिताः तोषिता इत्यर्थः ।
तैः देवैः दत्तान् भोगान् अप्रदाय अदत्त्वा आनृण्यम् अकृत्वा इत्यर्थः एभ्यो देवेभ्यः, यो भुङ्क्ते स्वदेहेन्द्रियाणि एव तर्पयति, स्तेन एव तस्कर एव स देवादिस्वापहारी ॥ १२ ॥