यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ १७ ॥
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ १७ ॥
yastvātmaratireva syādātmatṛptaśca mānavaḥ .
ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate .. 17 ..
परंतु जो आत्मज्ञाननिष्ठ सांख्ययोगी, केवल आत्मा में ही रतिवाला है अर्थात् जिसका आत्मा में ही प्रेम है, विषयों में नहीं और जो मनुष्य अर्थात् संन्यासी आत्मा से ही तृप्त है—जिसकी तृप्ति अन्न-रसादिके अधीन नहीं रह गयी है तथा जो आत्मा में ही सन्तुष्ट है, बाह्य विषयों के लाभ से तो सबको सन्तोष होता ही है, पर उनकी अपेक्षा न करके जो आत्मा में ही सन्तुष्ट है अर्थात् सब ओर से तृष्णारहित है। जो कोई ऐसा आत्मज्ञानी है उसके लिये कुछ भी कर्तव्य नहीं है ॥ १७ ॥
क्योंकि—
तात्पर्य पढ़ें
यः तु साङ्ख्य आत्मज्ञाननिष्ठ आत्मरतिः आत्मनि एव रतिः न विषयेषु यस्य स आत्मरतिः एव स्याद् भवेद् आत्मतृप्तश्च आत्मना एव तृप्तो न अन्नरसादिना मानवो मनुष्यः सन्न्यासी आत्मनि एव च सन्तुष्टः । सन्तोषो हि बाह्यार्थलाभे सर्वस्य भवति तम् अनपेक्ष्य आत्मनि एव च सन्तुष्टः सर्वतो वीततृष्ण इति एतत् । य ईदृश आत्मवित् तस्य कार्यं करणीयं न विद्यते न अस्ति इत्यर्थः ॥ १७ ॥