यत एवम्—
तस्मादसक्तः सततं कार्यं कर्म समाचर
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ १९ ॥
तस्मादसक्तः सततं कार्यं कर्म समाचर
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ १९ ॥
yata evam—
tasmādasaktaḥ satataṃ kāryaṃ karma samācara
asakto hyācarankarma paramāpnoti pūruṣaḥ .. 19 ..
इसलिये तू आसक्तिरहित होकर कर्तव्य—नित्यकर्मों का सदा भलीभाँति आचरण किया कर। क्योंकि अनासक्त होकर कर्म करनेवाला अर्थात् ईश्वरार्थ कर्म करता हुआ पुरुष, अन्तःकरण की शुद्धि द्वारा मोक्षरूप परमपद पा लेता है ॥ १९ ॥
एक और भी कारण है—
तात्पर्य पढ़ें
तस्माद् असक्तः सङ्गवर्जितः सततं सर्वदा कार्यं कर्तव्यं नित्यं कर्म समाचर निर्वर्तय। असक्तो हि यस्मात् समाचरन् ईश्वरार्थं कर्म कुर्वन् परं मोक्षम् आप्नोति पूरुषः सत्त्वशुद्धि द्वारा इत्यर्थः ॥ १९ ॥
यस्मात् च—