न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ २२ ॥
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ २२ ॥
na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana.
nānavāptamavāptavyaṃ varta eva ca karmaṇi .. 22 ..
हे पार्थ! तीनों लोकों में मेरा कुछ भी कर्तव्य नहीं है अर्थात् मुझे कुछ भी करना नहीं है; क्योंकि मुझे कोई भी अप्राप्त वस्तु प्राप्त नहीं करनी है तो भी मैं कर्मों में बर्तता ही हूँ ॥ २२ ॥
तात्पर्य पढ़ें
न मे मम पार्थ न अस्ति न विद्यते कर्तव्यं त्रिषु अपि लोकेषु किञ्चन किञ्चिद् अपि। कस्माद् न अनवाप्तम् अप्राप्तम् अवाप्तव्यं प्रापणीयं तथापि वर्ते एव च कर्मणि अहम् ॥ २२ ॥