उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्।
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ २४ ॥
tathā ca ko doṣa iti āha—
utsīdeyurime lokā na kuryāṃ karma cedaham.
saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ .. 24 ..
यदि मैं कर्म न करूँ तो लोकस्थितिके लिये किये जानेवाले कर्मोंका अभाव हो जानेसे यह सब लोक नष्ट हो जायँगे और मैं वर्णसंकरका कर्ता होऊँगा, इसलिये इस प्रजा का नाश भी करूँगा, अर्थात् प्रजा पर अनुग्रह करनेमें लगा हुआ मैं इनका हनन करनेवाला बनूँगा। यह सब मुझ ईश्वरके अनुरूप नहीं होगा ॥ २४ ॥
यदि मेरी तरह तू या दूसरा कोई कृतार्थबुद्धि आत्मवेत्ता हो, तो उसको भी अपने लिये कर्तव्यका अभाव होनेपर भी केवल दूसरों पर अनुग्रह (करनेके लिये कर्म) करना चाहिये—
तात्पर्य पढ़ें
उत्सीदेयुः विनश्येयुः इमे सर्वे लोका लोकस्थितिनिमित्तस्य कर्मणः अभावात्, न कुर्यां कर्म चेद् अहम्, किं च सङ्करस्य च कर्ता स्याम्। तेन कारणेन उपहन्याम् इमाः प्रजाः प्रजानाम् अनुग्रहाय प्रवृत्तः तद् उपहतिम् उपहननं कुर्याम् इत्यर्थः। मम ईश्वरस्य अननुरूपम् आपद्येत ॥ २४ ॥
यदि पुनः अहम् इव त्वं कृतार्थबुद्धिः आत्मविद् अन्यो वा तस्य अपि आत्मनः कर्तव्याभावे अपि परानुग्रह एव कर्तव्य इति—