अध्याय 3 - श्लोक 25

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत।
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥ २५ ॥

saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata.
kuryādvidvāṃstathāsaktaścikīrṣurlokasaṅgraham .. 25 ..


हे भारत! ‘इस कर्मका फल मुझे मिलेगा’ इस प्रकार कर्मोंमें आसक्त हुए कई अज्ञानी मनुष्य जैसे कर्म करते हैं आत्मवेत्ता विद्वान्को भी आसक्तिरहित होकर उसी तरह कर्म करना चाहिये।

आत्मज्ञानी उसकी तरह कर्म क्यों करता है ? सो सुन—वह लोकसंग्रह करनेकी इच्छावाला है (इसलिये करता है) ॥ २५ ॥

इस प्रकार लोकसंग्रह करनेकी इच्छावाले मुझ परमात्माका या दूसरे आत्मज्ञानीका, लोकसंग्रहको छोड़कर दूसरा कोई कर्तव्य नहीं रह गया है। अत: उस आत्मवेत्ता के लिये यह उपदेश किया जाता है—

तात्पर्य पढ़ें

सक्ताः कर्मणि अस्य कर्मणः फलं मम भविष्यति इति केचिद् अविद्वांसो यथा कुर्वन्ति भारत, कुर्याद् विद्वान् आत्मवित् तथा असक्तः सन्।

तद्भूतं किमर्थं करोति तत् शृणु, चिकीर्षुः कर्तुम् इच्छुः लोकसङ्ग्रहम् ॥ २५ ॥

एवं लोकसङ्ग्रहं चिकीर्षोः न मम आत्मविदः कर्तव्यम् अस्ति अन्यस्य वा लोकसङ्ग्रहं मुक्त्वा ततः तस्य आत्मविद इदम् उपदिश्यते—