अध्याय 3 - श्लोक 28

तत्त्ववित्तु महाबाहो
गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ २८ ॥

tattvavittu mahābāho
guṇakarmavibhāgayoḥ .
guṇā guṇeṣu vartanta iti matvā na sajjate .. 28 ..


परंतु जो—

ये पुनः—


हे महाबाहो! वह तत्त्ववेत्ता, किसका तत्त्ववेत्ता? गुण-कर्म-विभाग का, अर्थात् गुणविभाग और कर्मविभागके* तत्त्वको जाननेवाला ज्ञानी, ‘इन्द्रियादिरूप गुण ही विषयरूप गुणोंमें बर्त रहे हैं, आत्मा नहीं बर्तता’ ऐसे मानकर आसक्त नहीं होता। उन कर्मोंमें प्रीति नहीं करता ॥ २८ ॥
तात्पर्य पढ़ें
तत्त्ववित् तु महाबाहो कस्य तत्त्वविद् गुणकर्मविभागयोः गुणविभागस्य कर्मविभागस्य च तत्त्वविद् इत्यर्थः । गुणाः करणात्मका गुणेषु विषयात्मकेषु वर्तन्ते न आत्मा इति मत्वा न सज्जते । सक्तिं न करोति ॥ २८ ॥