ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ३१ ॥
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ३१ ॥
ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ
śraddhāvanto’nasūyanto mucyante te’pi karmabhiḥ .. 31 ..
जो श्रद्धायुक्त मनुष्य गुरुस्वरूप मुझ वासुदेव में असूया न करते हुए (मेरे गुणों में दोष न देखते हुए) मेरे इस मत के अनुसार चलते हैं, वे ऐसे मनुष्य भी पुण्य-पापरूप कर्मों से मुक्त हो जाते हैं ॥ ३१ ॥
तात्पर्य पढ़ें
ये मे मदीयम् इदं मतम् अनुतिष्ठन्ति अनुवर्तन्ते मानवा मनुष्याः श्रद्धावन्तः श्रद्दधाना अनसूयन्तः असूया च मयि गुरौ वासुदेवे अकुर्वन्तः मुच्यन्ते ते अपि एवम्भूताः कर्मभिः धर्माधर्माख्यैः ॥ ३१ ॥