अध्याय 4 - श्लोक 16

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
तत्ते कर्म प्रवक्ष्यामि यज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १६ ॥

kiṃ karma kimakarmeti kavayo’pyatra mohitāḥ .
tatte karma pravakṣyāmi yajñātvā mokṣyase’śubhāt .. 16 ..


कर्म क्या है और अकर्म क्या है, इस कर्मादिके विषयमें बड़े-बड़े बुद्धिमान् भी मोहित हो चुके हैं, इसलिये मैं तुझे वह कर्म और अकर्म बतलाऊँगा जिस कर्मादिको जानकर तू अशुभसे यानी संसारसे मुक्त हो जायगा ॥ १६ ॥

तुझे यह नहीं समझना चाहिये कि केवल देहादिकी चेष्टाका नाम कर्म है और उसे न करके चुपचाप बैठ रहनेका नाम अकर्म है, उसमें जाननेकी बात ही क्या है ? यह तो लोकमें प्रसिद्ध ही है। क्यों (ऐसा नहीं समझना चाहिये ?) इसपर कहते हैं—

तात्पर्य पढ़ें

किं कर्म किं च अकर्म इति कवयो मेधाविनः अपि अत्र अस्मिन् कर्मादिविषये मोहिता मोहं गताः । अतः ते तुभ्यम् अहं कर्म अकर्म च प्रवक्ष्यामि यद् ज्ञात्वा विदित्वा कर्मादि मोक्ष्यसे अशुभात् संसारात् ॥ १६ ॥

न च एतत् त्वया मन्तव्यम्, कर्म नाम देहादिचेष्टा लोकप्रसिद्धम् अकर्म तदक्रिया तूष्णीम् आसनं किं तत्र बोद्धव्यम् इति। कस्मात्, उच्यते—