स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ३ ॥
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ३ ॥
sa evāyaṃ mayā te’dya yogaḥ proktaḥ purātanaḥ.
bhakto’si me sakhā ceti rahasyaṃ hyetaduttamam .. 3 ..
वही यह पुराना योग, यह सोचकर कि तू मेरा भक्त और मित्र है, अब मैंने तुझसे कहा है; क्योंकि यह ज्ञानरूप योग बड़ा ही उत्तम रहस्य है ॥ ३ ॥
भगवान् ने असङ्गत कहा, ऐसी धारणा किसीकी न हो जाय, अतः उसको दूर करने के लिये शङ्का करता हुआ-सा—
अर्जुन बोले—
तात्पर्य पढ़ें
स एव अयं मया ते तुभ्यम् अद्य इदानीं योगः प्रोक्तः पुरातनः। भक्तः असि मे सखा च असि इति। रहस्यं हि यस्माद् एतद् उत्तमं योगो ज्ञानम् इत्यर्थः ॥ ३ ॥
भगवता विप्रतिषिद्धम् उक्तम् इति मा भूत् कस्यचिद् बुद्धिः इति परिहारार्थं चोद्यम् इव कुर्वन्—