स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७ ॥
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७ ॥
sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ .
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau .. 27 ..
शब्दादि बाह्य विषयोंको बाहर करके यानी जो शब्दादि विषय श्रोत्रादि इन्द्रियोंद्वारा अन्तःकरण के भीतर प्रविष्ट कर लिये गये हैं, उनका चिन्तन न करना ही बाह्य विषयोंको निकाल बाहर करना है, इस प्रकार उनको बाहर करके एवं दोनों नेत्रों (-की दृष्टि)-को भृकुटि के मध्यस्थान में स्थित करके तथा नासिका (और कण्ठादि आभ्यन्तर भागों)-के भीतर विचरनेवाले प्राण और अपानको समान करके ॥ २७ ॥
तात्पर्य पढ़ें
स्पर्शान् शब्दादीन् कृत्वा बहिः बाह्यान् श्रोत्रादिद्वारेण अन्तर्बुद्धौ प्रवेशिताः शब्दादयो विषयाः तान् अचिन्तयतो बाह्या बहिः एव कृता भवन्ति। तान् एवं बहिः कृत्वा चक्षुः च एव अन्तरे भ्रुवोः कृत्वा इति अनुषज्यते। तथा प्राणापानौ नासाभ्यन्तरचारिणौ समौ कृत्वा ॥ २७ ॥