अध्याय 5 - श्लोक 7

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ७ ॥

yogayukto viśuddhātmā vijitātmā jitendriyaḥ .
sarvabhūtātmabhūtātmā kurvannapi na lipyate .. 7 ..


योगसे युक्त, विशुद्ध अन्तःकरणवाला, विजितात्मा शरीरविजयी, जितेन्द्रिय और सब भूतोंमें अपने आत्माको देखनेवाला अर्थात् जिसका अन्तरात्मा ब्रह्मासे लेकर स्तम्बपर्यन्त सम्पूर्ण भूतोंका आत्मरूप हो गया हो; ऐसा, यथार्थ ज्ञानी हो जाता है।

तब इस प्रकार स्थित हुआ वह पुरुष लोकसंग्रहके लिये कर्म करता हुआ भी उनसे लिप्त नहीं होता अर्थात् कर्मोंसे नहीं बँधता ॥ ७ ॥

वास्तवमें वह कुछ करता भी नहीं है, इसलिये—

आत्माके यथार्थ स्वरूपका नाम तत्त्व है उसको जाननेवाला तत्त्वज्ञानी-परमार्थदर्शी, समाहित होकर ऐसे माने कि मैं कुछ भी नहीं करता।

तत्त्वको समझकर कब और किस प्रकार ऐसे माने? सो कहते हैं—

तात्पर्य पढ़ें

योगेन युक्तो योगयुक्तो विशुद्धात्मा विशुद्ध-सत्त्वो विजितात्मा विजितदेहो जितेन्द्रियः च, सर्वभूतात्मभूतात्मा सर्वेषां ब्रह्मादीनां स्तम्बपर्यन्तानां भूतानाम् आत्मभूत आत्मा प्रत्यक्चेतनो यस्य स सर्वभूतात्मभूतात्मा सम्यग्दर्शी इत्यर्थः।

स तत्र एवं वर्तमानो लोकसङ्ग्रहाय कर्म कुर्वन् अपि न लिप्यते न कर्मभिः बध्यते इत्यर्थः ॥ ७ ॥

न च असौ परमार्थतः करोति अतः—

न एव किञ्चित् करोमि इति युक्तः समाहितः सन् मन्येत चिन्तयेत् तत्त्वविद् आत्मनो याथात्म्यं तत्त्वं वेत्ति इति तत्त्ववित् परमार्थदर्शी इत्यर्थः।

कदा कथं वा तत्त्वम् अवधारयन् मन्येत इति उच्यते—