उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ १२ ॥
tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ .
upaviśyāsane yuñjyādyogamātmaviśuddhaye .. 12 ..
उस आसन पर बैठकर योगका साधन करे।
कैसे करे ? मनको सब विषयों से हटाकर एकाग्र करके तथा यतचित्तेन्द्रियक्रिय यानी चित्त और इन्द्रियोंकी क्रियाओंको जीतनेवाला होकर योगका साधन करे। जिसने मन और इन्द्रियोंकी क्रियाओं का संयम कर लिया हो उसको यतचित्तेन्द्रियक्रिय कहते हैं।
वह किसलिये योगका साधन करे ? सो कहते हैं—
आत्मशुद्धि के लिये अर्थात् अन्तःकरण की शुद्धिके लिये करे ॥ १२ ॥
बाह्य आसन का वर्णन किया, अब शरीरको कैसे रखना चाहिये? सो कहते हैं—
तात्पर्य पढ़ें
तत्र तस्मिन् आसने उपविश्य योगं युञ्ज्यात् ।
कथम्, सर्वविषयेभ्य उपसंहृत्य एकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः चित्तं च इन्द्रियाणि च चित्तेन्द्रियाणि तेषां क्रियाः संयता तस्य स यतचित्तेन्द्रियक्रियः ।
स किमर्थं योगं युञ्ज्याद् इति आह—
आत्मविशुद्धये अन्तःकरणस्य विशुद्ध्यर्थम् इति एतत् ॥ १२ ॥
बाह्यम् आसनम् उक्तम् अधुना शरीरधारणं कथम् इति उच्यते—