अध्याय 6 - श्लोक 21

किं च—
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ २१ ॥

kiṃ ca—
sukhamātyantikaṃ yattadbuddhigrāhyamatīndriyam .
vetti yatra na caivāyaṃ sthitaścalati tattvataḥ .. 21 ..


जो सुख अत्यन्त यानी अन्त से रहित—अनन्त है, जो इन्द्रियों की कुछ भी अपेक्षा न करके केवल बुद्धि से ही ग्रहण किया जाने योग्य है, जो इन्द्रियों की पहुँच से अतीत है यानी जो विषयजनित सुख नहीं है, ऐसे सुख को यह योगी जिस काल में अनुभव कर लेता है, जिस काल में अपने स्वरूप में स्थित हुआ यह ज्ञानी उस तत्त्व से—वास्तविक स्वरूप से चलायमान नहीं होता—विचलित नहीं होता ॥ २१ ॥
तात्पर्य पढ़ें

तथा—

सुखम् आत्यन्तिकम् अत्यन्तम् एव भवति इति आत्यन्तिकम् अनन्तम् इत्यर्थः । यत् तद् बुद्धिग्राह्यं बुद्ध्या एव इन्द्रियनिरपेक्षया गृह्यते इति बुद्धिग्राह्यम् अतीन्द्रियम् इन्द्रियगोचरातीतम् अविषयजनितम् इत्यर्थः । वेत्ति तद् ईदृशं सुखम् अनुभवति यत्र यस्मिन् काले, न च एव अयं विद्वान् आत्मस्वरूपे स्थितः तस्माद् न एव चलति तत्त्वतः तत्त्वस्वरूपाद् न प्रच्यवते इत्यर्थः ॥ २१ ॥