किं च—
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः।
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ २२ ॥
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः।
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ २२ ॥
kiṃ ca—
yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ.
yasminsthito na duḥkhena guruṇāpi vicālyate .. 22 ..
जिस आत्मप्राप्तिरूप लाभको प्राप्त होकर उससे अधिक कोई दूसरा लाभ है ऐसा नहीं मानता, दूसरे लाभको स्मरण भी नहीं करता। एवं जिस आत्मतत्त्वमें स्थित हुआ योगी शस्त्राघात आदि बड़े भारी दुःखों द्वारा भी विचलित नहीं किया जा सकता ॥ २२ ॥
‘यत्रोपरमते’ से लेकर यहाँतक समस्त विशेषणों से विशिष्ट आत्माका अवस्थाविशेषरूप जो योग कहा गया है—
तात्पर्य पढ़ें
यं लब्ध्वा यम् आत्मलाभं लब्ध्वा प्राप्य च अपरम् अन्यल्लाभान्तरं ततः अधिकम् अस्ति इति न मन्यते चिन्तयति। किं च यस्मिन् आत्मतत्त्वे स्थितो दुःखेन शस्त्रनिपातादिलक्षणेन गुरुणा महता अपि न विचाल्यते ॥ २२ ॥
‘यत्रोपरमते’ इत्याद्यारभ्य यावद्भिः विशेषणैः विशिष्ट आत्मावस्थाविशेषो योग उक्तः—