अध्याय 6 - श्लोक 25

शनैः शनैरुपरमेद्बुद्ध्या
ध्रुतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ २५ ॥

śanaiḥ śanairuparamedbuddhyā
dhrutigṛhītayā .
ātmasaṃsthaṃ manaḥ kṛtvā na kiñcidapi cintayet .. 25 ..


शनैः-शनैः अर्थात् सहसा नहीं, क्रम-क्रम से उपरतिको प्राप्त करे।

किसके द्वारा? बुद्धि द्वारा। कैसी बुद्धि द्वारा?

धैर्यसे धारण की हुई अर्थात् धैर्ययुक्त बुद्धि द्वारा।

तथा मनको आत्मामें स्थित करके अर्थात् ‘यह सब कुछ आत्मा ही है, उससे अतिरिक्त अन्य कुछ भी नहीं है’ इस प्रकार मनको आत्मामें अचल करके अन्य किसी वस्तु का भी चिन्तन न करे। यह योगकी परम श्रेष्ठ विधि है ॥ २५ ॥

इस प्रकार मनको आत्मामें स्थित करनेमें लगा हुआ योगी—

तात्पर्य पढ़ें

शनैः शनैः न सहसा उपरमेद् उपरतिं कुर्यात् ।

कया, बुद्ध्या। किंविशिष्टया धृतिगृहीतया धृत्या धैर्येण गृहीतया धृतिगृहीतया धैर्येण युक्तया इत्यर्थः ।

आत्मसंस्थम् आत्मनि संस्थितम् आत्मा एव सर्वं न ततः अन्यत् किञ्चिद् अस्ति इति एवम् आत्मसंस्थं मनः कृत्वा, न किञ्चिद् अपि चिन्तयेद् एष योगस्य परमो विधिः ॥ २५ ॥

तत्र एवम् आत्मसंस्थं मनः कर्तुं प्रवृत्तो योगी—