कर्म
कारणमुच्यते।
योगारूढस्य तस्यैव शमः
कारणमुच्यते॥ ३ ॥
ārurukṣormuneryogaṃ
karma
kāraṇamucyate.
yogārūḍhasya tasyaiva śamaḥ
kāraṇamucyate.. 3 ..
जो ध्यानयोगमें आरूढ़ नहीं—ध्यानयोगमें स्थित नहीं रह सकता है, ऐसे योगारूढ़ होनेकी इच्छावाले मुनि अर्थात् कर्मफलत्यागी पुरुषके लिये ध्यानयोगपर आरूढ़ होनेका साधन ‘कर्म’ बतलाया गया है।
तथा वही जब योगारूढ़ हो जाता है तो उसके लिये योगारूढ़ता (ध्यानयोगमें सदा स्थित रहनेका) साधन शम—उपशम यानी ‘सर्व कर्मोंसे निवृत्त होना’ बतलाया गया है।
(मनुष्य) जितना-जितना कर्मोंसे उपरत होता जाता है, उतना-उतना ही उस परिश्रमरहित जितेन्द्रिय पुरुषका चित्त समाहित होता जाता है। ऐसा होनेसे वह झटपट योगारूढ़ हो जाता है।
व्यासजीने भी यही कहा है कि ‘ब्राह्मणके लिये दूसरा ऐसा कोई धन नहीं है, जैसा कि एकता, समता, सत्यता, शील, स्थिति, अहिंसा, आर्जव और उन-उन क्रियाओंसे उपराम होना है’॥ ३॥
साधक कब योगारूढ़ हो जाता है, यह अब बतलाते हैं—
तात्पर्य पढ़ें
आरुरुक्षोः आरोढुम् इच्छतः अनारूढस्य ध्यानयोगे अवस्थातुम् अशक्तस्य एव इत्यर्थः, कस्य आरुरुक्षोः मुनेः कर्मफलसन्न्यासिन इत्यर्थः। किम् आरुरुक्षोः योगं कर्म कारणं साधनम् उच्यते।
योगारूढस्य पुनः तस्य एव शम उपशमः सर्वकर्मभ्यो निवृत्तिः कारणं योगारूढत्वस्य साधनम् उच्यते इत्यर्थः।
यावद् यावत् कर्मभ्य उपरमते तावत् तावद् निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते । तथा सति स झटिति योगारूढो भवति ।
तथा च उक्तं व्यासेन— ‘नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च । शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः ॥’ (महा० शान्ति० १७५ । ३७) इति ॥ ३ ॥
अथ इदानीं कदा योगारूढो भवति इति उच्यते—