अध्याय 6 - श्लोक 33

अर्जुन उवाच—
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ ३३ ॥

arjuna uvāca—
yo’yaṃ yogastvayā proktaḥ sāmyena madhusūdana
etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām .. 33 ..


हे मधुसूदन! आपने जो यह समत्वभावरूप योग कहा है, मन की चञ्चलता के कारण मैं इस योग की अचल स्थिति नहीं देखता हूँ—यह बात प्रसिद्ध है ॥ ३३ ॥
तात्पर्य पढ़ें
यः अयं योगः त्वया प्रोक्तः साम्येन समत्वेन हे मधुसूदन एतस्य योगस्य अहं न पश्यामि न उपलभे चञ्चलत्वाद् मनसः किं स्थिराम् अचलां स्थितिं प्रसिद्धम् एतत् ॥ ३३ ॥