अध्याय 6 - श्लोक 46

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ४६ ॥

tapasvibhyo’dhiko yogī jñānibhyo’pi mato’dhikaḥ .
karmibhyaścādhiko yogī tasmādyogī bhavārjuna .. 46 ..


तपस्वियों और ज्ञानियों से भी योगी अधिक है। यहाँ ज्ञान शास्त्र-विषयक पाण्डित्य का नाम है, उससे युक्त जो ज्ञानवान् हैं उनकी अपेक्षा योगी अधिक श्रेष्ठ है। तथा अग्निहोत्रादि कर्म करनेवालों से भी योगी अधिक श्रेष्ठ है, इसलिये हे अर्जुन! तू योगी हो ॥ ४६ ॥
तात्पर्य पढ़ें
तपस्विभ्यः अधिको योगी ज्ञानिभ्यः अपि, ज्ञानम् अत्र शास्त्रपाण्डित्यं तद्वद्भ्यः अपि मतो ज्ञातः अधिकः श्रेष्ठ इति कर्मिभ्यः अग्निहोत्रादि कर्म तद्वद्भ्यः अधिको योगी विशिष्टो यस्मात् तस्माद् योगी भव अर्जुन ॥ ४६ ॥