अध्याय 6 - श्लोक 7

जितात्मनः प्रशान्तस्य
परमात्मा समाहितः ।
शीतोष्णसुखदुःखेषु
तथा
मानापमानयोः ॥ ७ ॥

jitātmanaḥ praśāntasya
paramātmā samāhitaḥ .
śītoṣṇasukhaduḥkheṣu
tathā
mānāpamānayoḥ .. 7 ..


जिसने मन, इन्द्रिय आदिके संघातरूप इस शरीर को अपने वश में कर लिया है और जो प्रशान्त है—जिसका अन्तःकरण सदा प्रसन्न रहता है उस संन्यासी को भली प्रकार से सर्वत्र परमात्मा प्राप्त है अर्थात् साक्षात् आत्मभाव से विद्यमान है।
तात्पर्य पढ़ें
जितात्मनः कार्यकरणादिसङ्घात आत्मा जितो येन स जितात्मा, तस्य जितात्मनः, प्रशान्तस्य प्रसन्नान्तःकरणस्य सतः सन्न्यासिनः परमात्मा समाहितः साक्षाद् आत्मभावेन वर्तते इत्यर्थः । किं च शीतोष्णसुखदुःखेषु तथा माने अपमाने च मानापमानयोः पूजापरिभवयोः ॥ ७ ॥