बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि
तेजस्तेजस्विनामहम् ॥ १० ॥
बुद्धिर्बुद्धिमतामस्मि
तेजस्तेजस्विनामहम् ॥ १० ॥
bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam .
buddhirbuddhimatāmasmi
tejastejasvināmaham .. 10 ..
हे पार्थ! मुझे तू सब भूतों का सनातन—पुरातन बीज अर्थात् उनकी उत्पत्तिका मूल कारण जान। तथा मैं ही बुद्धिमानों की बुद्धि अर्थात् विवेक-शक्ति और तेजस्वियों अर्थात् प्रभावशाली पुरुषों का तेज—प्रभाव हूँ ॥ १० ॥
तात्पर्य पढ़ें
बीजं प्ररोहकारणं मां विद्धि सर्वभूतानां हे पार्थ सनातनं चिरन्तनम्। किं च बुद्धिः विवेकशक्तिः अन्तःकरणस्य बुद्धिमतां विवेक-शक्तिमताम् अस्मि, तेजः प्रागल्भ्यं तद्वतां तेजस्विनाम् अहम् ॥ १० ॥