अध्याय 7 - श्लोक 21

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ २१ ॥

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati.
tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham .. 21 ..


जो-जो सकाम भक्त जिस-जिस देवताके स्वरूपका श्रद्धा और भक्तियुक्त होकर अर्चन-पूजन करना चाहता है, उस-उस भक्तकी देवताविषयक उस श्रद्धाको मैं अचल—स्थिर कर देता हूँ।

अभिप्राय यह कि जो पुरुष पहले स्वभावसे ही प्रवृत्त हुआ जिस श्रद्धाद्वारा जिस देवताके स्वरूपका पूजन करना चाहता है (उस पुरुषकी उसी श्रद्धाको मैं स्थिर कर देता हूँ) ॥ २१ ॥

तात्पर्य पढ़ें

यो यः कामी यां यां देवतातनुं श्रद्धया संयुक्तो भक्तः च सन् अर्चितुं पूजयितुम् इच्छति, तस्य तस्य कामिनः अचलां स्थिरां श्रद्धां ताम् एव विदधामि स्थिरीकरोमि।

यया एव पूर्वं प्रवृत्तः स्वभावतो यो यां

देवतातनुं श्रद्धया अर्चितुम् इच्छति इति ॥ २१ ॥