येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ २८ ॥
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ २८ ॥
yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām .
te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ .. 28 ..
वे किसलिये भजते हैं! सो कहते हैं—
तात्पर्य पढ़ें
येषां त्वन्तगतं समाप्तप्रायं क्षीणं पापं जनानां पुण्यकर्मणां पुण्यं कर्म येषां सत्त्वशुद्धिकारणं विद्यते ते पुण्यकर्माणः तेषां पुण्यकर्मणाम्, ते द्वन्द्वमोहनिर्मुक्ता यथोक्तेन द्वन्द्वमोहेन निर्मुक्ता भजन्ते मां परमात्मानं दृढव्रताः, एवम् एव परमार्थतत्त्वं न अन्यथा इति एवं निश्चितविज्ञाना दृढव्रता उच्यन्ते ॥ २८ ॥
ते किमर्थं भजन्ते, इति उच्यते—