अध्याय 7 - श्लोक 3

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ३ ॥

manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye .
yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ .. 3 ..


हजारों मनुष्यों में कोई एक ही (मोक्षरूप) सिद्धिके लिये प्रयत्न करता है और उन यत्न करनेवाले सिद्धों में भी—जो मोक्ष के लिये यत्न करते हैं वे (एक तरहसे) सिद्ध ही हैं उनमें भी—कोई एक ही मुझे तत्त्वसे—यथार्थ जान पाता है ॥ ३ ॥

इस प्रकार रुचि बढ़ाकर श्रोताको सम्मुख करके कहते हैं—

तात्पर्य पढ़ें

मनुष्याणां मध्ये सहस्रेषु अनेकेषु कश्चिद् यतति प्रयत्नं करोति सिद्धये सिद्ध्यर्थम्, तेषां यतताम् अपि सिद्धानां सिद्धा एव हि ते ये मोक्षाय यतन्ते तेषां कश्चिद् एव मां वेत्ति तत्त्वतो यथावत् ॥ ३ ॥

श्रोतारं प्ररोचनेन अभिमुखीकृत्य आह—