प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ३० ॥
sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ .
prayāṇakāle’pi ca māṃ te viduryuktacetasaḥ .. 30 ..
(इसी प्रकार) जो मनुष्य मुझ परमेश्वर को साधिभूताधिदैव अर्थात् अधिभूत और अधिदैव के सहित जानते हैं एवं साधियज्ञ अर्थात् अधियज्ञ के सहित भी जानते हैं वे निरुद्ध-चित्त योगी लोग मरण-काल में भी मुझे यथावत् जानते हैं ॥ ३० ॥
‘ते ब्रह्म तद्विदुः कृत्स्नम्’ इत्यादि वचनों से (पूर्वाध्याय में) भगवान् ने अर्जुन के लिये प्रश्न के बीजों का उपदेश किया था, अतः उन प्रश्नों को पूछने के लिये अर्जुन बोले—
तात्पर्य पढ़ें
साधिभूताधिदैवम् अधिभूतं च अधिदैवं च अधिभूताधिदैवं सह अधिभूताधिदैवेन साधिभूताधिदैवं च मां ये विदुः साधियज्ञं च सह अधियज्ञेन साधियज्ञं ये विदुः प्रयाणकाले अपि च मरणकाले अपि च मां ते विदुः युक्तचेतसः समाहितचित्ता इति ॥ ३० ॥
‘ते ब्रह्म तद्विदुः कृत्स्नम्’ इत्यादिना भगवता अर्जुनस्य प्रश्नबीजानि उपदिष्टानि अतः तत्प्रश्नार्थम्—
इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यां भीष्म-पर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम
सप्तमोऽध्यायः ॥ ७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर-भगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये ज्ञानविज्ञानयोगो नाम
सप्तमोऽध्यायः ॥ ७ ॥