अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ १४ ॥
kiṃ ca—
ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ .
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ .. 14 ..
अनन्यचित्तवाला अर्थात् जिसका चित्त अन्य किसी भी विषयका चिन्तन नहीं करता, ऐसा जो योगी सर्वदा निरन्तर प्रतिदिन मुझ परमेश्वरका स्मरण किया करता है।
यहाँ ‘सततम्’ इस शब्दसे निरन्तरताका कथन है और ‘नित्यशः’ इस शब्दसे दीर्घकालका कथन है, अतः यह समझना चाहिये कि छः महीने या एक वर्ष ही नहीं किंतु जीवनपर्यन्त जो निरन्तर मेरा स्मरण करता है।
हे पार्थ! उस नित्य-समाधिस्थ योगी के लिये मैं सुलभ हूँ। अर्थात् उसको मैं अनायास प्राप्त हो जाता हूँ। जब कि यह बात है, इसलिये (मनुष्य को) अनन्य चित्तवाला होकर सदा ही मुझमें समाहितचित्त रहना चाहिये ॥ १४ ॥
आपके सुलभ हो जानेसे क्या होगा ? इसपर कहते हैं कि मेरी सुलभ प्राप्तिसे जो होता है, वह सुन—
तात्पर्य पढ़ें
अनन्यचेता न अन्यविषये चेतो यस्य सः अयम् अनन्यचेता योगी सततं सर्वदा यो मां परमेश्वरं स्मरति नित्यशः।
सततम् इति नैरन्तर्यम् उच्यते । नित्यशः इति दीर्घकालत्वम् उच्यते । न षण्मासं संवत्सरं वा किं तर्हि यावज्जीवं नैरन्तर्येण यो मां स्मरति इत्यर्थः ।
तस्य योगिनः अहं सुलभः सुखेन लभ्यः पार्थ नित्ययुक्तस्य सदा समाहितस्य योगिनः यत एवम् अतः अनन्यचेताः सन् मयि सदा समाहितो भवेत् ॥ १४ ॥
तव सौलभ्येन किं स्यात्, इति उच्यते शृणु तद् मम सौलभ्येन यद् भवति—